|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.70. अध्यायः 070
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेन स्ययुद्धानुवादपूर्वकं युधिष्ठिरम्प्रति कर्णवधप्रतिज्ञानम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-70-0x(5003)(58408)
तद्धर्मशीलस्य वचो निशम्य
राज्ञः क्रुद्धस्यातिरथो महात्मा।
उवाच दुर्मर्षमदीनसत्वो
युधिष्ठिरं जिष्णुरनन्तवीर्यः॥ 8-70-1(58409)
द्रोणं हतं पार्थ कर्णो विदित्वा
भिन्नां नावविमावत्यगाधे कुरूणाम्।
सम्मुह्यमानान्धार्तराष्ट्रान्विदित्वा
निरुत्साहांश्च विजये परेषाम्॥ 8-70-2(58410)
सोदर्यवत्त्वरितोऽमितौजा
उत्तारयिष्यन्धृतराष्ट्रस्य पुत्रान्।
रणे रथेनाधिरथिर्महात्मा
ततो हि मां त्वरितः सोऽभ्यधावत्॥ 8-70-3(58411)
संशप्तकैर्युध्यमानस्य मेऽद्य
सेनाग्रयायी कुरुसैन्यस्य राजन्।
आशीविषाभान्विकिरञ्शरौघा--
न्द्रौणिः पुरस्तात्सहसाध्यतिष्ठत्॥ 8-70-4(58412)
स मे दृष्ट्वा शूरतमो ध्वजाग्रं
समादिशद्रथसङ्घाननेकान्।
तेषामहं पञ्चशतं निहत्य
आसादयं द्रोणपुत्रं नदन्तम्॥ 8-70-5(58413)
स द्रोणपुत्रः सदृशं महात्मा
मामप्यरौत्सीत्तदनीकमध्ये।
किरञ्शरौघान्बहुरूपान्विचित्रा--
न्स्वातीगतः शुक्र इवातिवर्षन्॥ 8-70-6(58414)
स मे रान्सर्वतः कङ्कपत्रा--
नवासृजद्वै पृथिवीप्रकाशान्।
निवार्य तूर्णं परमाजिमध्ये
ततोऽपि मां बाणगणैः समार्पयत्॥ 8-70-7(58415)
आकर्षणं वापि विकृष्य मुक्तं
न दृश्यते तस्य महारथस्य।
न सन्दधानः कुत आददानो
न व्याक्षिपन्न विकर्षन्विमुञ्चन्॥ 8-70-8(58416)
सव्येन वा यदि वा दक्षिणेन
न ज्ञायते कतरेणास्यतीति।
आचार्यवत्समरे पर्यवर्त--
न्महच्चित्रं दर्शयन्सर्वतः स्म॥ 8-70-9(58417)
दृष्ट्वीविषं चासुहरं परेषां
सर्वा दिशः पूरयानं शरौधैः।
अलातचक्रप्रतिमं महात्मनः
सदा नतं कार्मुकं ब्रह्मबन्धोः॥ 8-70-10(58418)
ततोऽपरान्बाणगणाननेका--
नाकर्णपूर्णायतविप्रमुक्तान्।
ससर्ज शीघ्रास्त्रबलेन वीर--
स्तोयं यथा प्रावृषि कालमेघः॥ 8-70-11(58419)
आविध्यन्मां पञ्चभिद्रोणपुत्रः
शितैः शरैः पञ्चभिर्वासुदेवम्।
अभ्यघ्नं बाणैस्तमहं सुधारै--
र्निमेषमात्रेण सुवर्णपुङ्खैः॥ 8-70-12(58420)
स निर्विद्धो विरथो द्रोणपुत्रो
रथानीकं चाधिरथेर्विवेश।
मयाभिभूतान्स्वरथप्रबर्हा--
नस्त्रं च पश्यन्रुधिरप्रदिग्धम्॥ 8-70-13(58421)
ततोऽभिभूतं युधि वीक्ष्य सैन्यं
विध्वस्तयोधं द्रुतनागयूथम्।
पञ्चाशता रथमुख्यैः समेतः
कर्णस्त्वरन्नभ्यपतत्प्रमाथी॥ 8-70-14(58422)
तान्सूदयित्वाऽहमपास्य कर्णं
द्रष्टुं भवन्तं त्वरयोपयातः।
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णं
दृष्ट्वा गावः केसरिणं यथैव॥ 8-70-15(58423)
मृत्योरास्यं व्यात्तमिवाभिपद्य
प्रभद्रकाः कर्णमासाद्य सर्वे।
यास्यामि तांस्तारयिष्यन्बलौघा--
द्दिष्ट्या भवान्स्वस्तिमान्पार्थ दृष्टः॥ 8-70-16(58424)
हनिष्येऽहं भारत सूतपुत्र--
मस्मिन्सङ्ग्रामे यदि दृश्यतेऽद्य।
आयाहि पश्याद्य युयुत्समानौ
मां सूतपुत्रं च धृतौ रणाय॥ 8-70-17(58425)
महाझषस्येव मुखं प्रपन्नाः
प्रभद्रकाः कर्णमुखं प्रपन्नाः।
षट्साहस्रा भारत राजपुत्राः
स्वर्गाय लोकाय रणे निमग्नाः॥ 8-70-18(58426)
तानद्य यास्यामि रणाद्विमोक्तुं
सर्वात्मना सूतपुत्रं च हन्तुम्॥ 8-70-19(58427)
अथ प्रवीरेण महानुभाव
द्विषत्सैन्यं निर्दहन्विस्तरेण।
समेत्याहं सूतपुत्रेण सङ्ख्ये
वज्रीव वृत्रेण नरेन्द्रमुख्य॥ 8-70-20(58428)
एवं गते किञ्च मयाऽद्य शक्यं
कार्यं कर्तुं निग्रहे सूतजस्य।
तथैव राज्ञश्च सुयोधनस्य
ये चापि मां योद्धुकामाः समेताः॥ 8-70-21(58429)
कर्णं न चेदद्य निहन्मि राज--
न्सबान्धवं युध्यमानं प्रसह्य।
प्रतिश्रुत्याऽकुर्वतां या गतिर्वै
कष्टां यायां तामहं राजसिंह॥ 8-70-22(58430)
आमन्त्रये त्वां ब्रूहि रणे जयं मे
पुरा भीमं धार्तराष्ट्रा ग्रसन्ति।
सौतिं हनिष्यामि नरेन्द्रसिंह
सैन्यं तथा शत्रुगणांश्च सर्वान्॥ ॥ 8-70-23(58431)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्ततितमोऽध्यायः॥ 70 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|